मम प्रियाः देश-वासिनः ! नमस्कारः
ऋतुः परिवर्तते | अस्मिन् वर्षे निदाघस्य तापः अपि अधिकः आसीत् | परञ्च सुखदम् इदं वृत्तं यत् वर्षर्तुः काले एव सम्प्राप्तः | देशस्य अनेकेषु स्थानेषु मूसलाधार-वृष्टि-कारणात् सुदिनानि सञ्जातानि | वर्षायाः अनन्तरं प्रवहमानैः शीतलैः मन्द-समीरैः विगत-दिनानां आतापात् मुक्तिः अनुभूयते | अस्माभिः सर्वैः अपि अनुभूतं यत् जीवने कियती अपि व्यग्रता भवेत्, कियती अपि आततिः स्यात्, भवतु नाम वैयक्तिकं जीवनं वा सार्वजनिकम् - वर्षायाः आगमनं हि अस्मदीयां मनसः स्थितिम् अपि परिवर्तयति |अद्यत्वे भगवतः जगन्नाथस्य रथयात्रा-समुत्सवः देशस्य नाना-भागेषु राष्ट्रवासिनः सोल्लासं सश्रद्धञ्च समायोजयन्ति | साम्प्रतन्तु जगतः अपि केषुचित् स्थानेषु भगवतः जगन्नाथस्य रथयात्रा-महोत्सवः आमान्यते | अपि च, भगवता जगन्नाथेन साकमेव राष्ट्रस्य निर्धन-जनः संयुक्तोsस्ति | ये जनाः डॉ.बाबा-साहेब-अम्बेडकरस्य जीवनम् अधीतवन्तः, ते नूनम् अनुभूतवन्तः यत् सः भगवतः जगन्नाथस्य मन्दिरं एतद्-विषयिणीः परम्पराः च अतितरां प्रशंसति स्म | यतो हि अत्र सामाजिक-न्यायः, सामाजिकी च समरसता अन्तर्निहिते स्तः | वस्तुतस्तु भगवान् जगन्नाथः निर्धनानां देवता | तथा च, आङ्ग्ल-भाषायाम् एकः शब्दः अस्ति - juggernaut | मन्ये, न्यूनाः एव अवगताः स्युः यत् अस्य अर्थः भवति- एतादृशः भव्यः रथः यस्य गतिः अप्रतिहता भवति, न कश्चन अपि एनम् अवरोद्धुं पारयति | juggernaut इति शब्दस्य शब्दकोशीयेन अर्थेण अपि ज्ञायते यत् जगन्नाथस्य रथ-साम्यत्वेन juggernaut इति शब्दः समुद्भूतः | अत एव वयम् अवगन्तुं शक्नुमः यत् भगवतः जगन्नाथस्य यात्रैषा अशेष-संसारेण स्व-स्व-प्रकारेण कियता महता माहात्म्येन स्वीक्रियते | भगवतो जगन्नाथस्य रथयात्रायाः शुभेsस्मिन् अवसरे सर्वेभ्योsपि राष्ट्रवासिभ्यः शुभ-कामनाः वितरामि, भगवतो जगन्नाथस्य श्रीचरणेषु अपि प्रणामाञ्जलीन् निवेदयामि |
अस्ति भारतस्य विविधता हि अस्य विशेषता | भारतस्य विविधता चास्ति भारतस्य शक्तिरपि | रमज़ानस्य पवित्रमासः पवित्र-भावैः प्रार्थनाभिः च सर्वैः समाचरितः | सम्प्रति वर्तते ईद्-पर्व | ईद्-उल्-फ़ितर्-पर्वणः अवसरे मम पक्षतः सर्वेभ्यः भूरिशः मङ्गल-कामनाः | रमज़ान-मासः पुण्य-दानस्य मासत्वेन ख्याप्यते, प्रसन्नतायाः वितरणस्य मासः अस्ति, यावन्-मात्रिकं प्रसन्नता-वितरणं भवति, तावन्त्यः प्रसन्नताः विवर्धन्ते | आगच्छन्तु, वयं सर्वे मिलित्वा एतेभ्यः पवित्र-समुत्सवेभ्यः प्रेरणाम् आदाय प्रसन्नता-प्रवाहान् वितरेम, देशञ्च अग्रेसारयेम !!